॥ श्री बालरक्षा स्तोत्र ॥

लहान मुलांना / बाळांना नजर वैगेरे लागणे, नेहमी त्रास होणे, झोपेत घाबरणे, सतत चिडचिड हट्टीपणा, अशा वेगवेगळ्या कारणांनी अस्वस्थ राहणे आणि यामुळे होणारा त्रास कमी होण्यासाठी हे बालरक्षा स्तोत्र नित्य पठण करावे.

॥ श्री गणेशाय नमः ॥

अव्यादजोङघ्रिंमणिमांस्तव जान्वथोरू यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
ह्रत्केशवस्त्वदुर ईश इनस्तु कंठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥१॥

चक्रयग्रतः सहगदो हरिरस्तु पश्‍चात्त्वत्पार्श्वयोर्धनुरसौ मधुहाजनश्‍च ।
कोणेषु शंख उरुगाय उपर्युपेन्द्रस्तार्क्ष्यः क्षितौ हलधरः पुरुषः समंतात् ॥२॥

इन्द्रियाणि ह्रषीकेशः प्राणान्नारायणोऽवतु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥३॥

पृश्निगर्भश्च ते बुद्धिमात्मानं भगवान्परः । क्रीडंतं पातु गोविंदः शयानं पातु माधवः ॥४॥

व्रजंतमव्याद्वैकुंठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक्पातु सर्वग्रहभयंकरः ॥५॥

डाकिन्यो यातुधान्यश्च कूष्मांडायेऽर्भकग्रहाः । भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥६॥

कोटरारेवतीज्येष्ठापूतनामातृकादयः । उन्मादा ये ह्यपस्मारा देहप्राणेन्द्रियद्रुहः ॥७॥

स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यंतु ते विष्णोर्नमग्रहणभीरवः ॥८॥

इति श्रीमद्‌भागवते दशमस्कंधे गोपीकृतबालरक्षा संपूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top